प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव।
राजर्षिचरितवंशानुचरितदिव्याश्रयोपेतम् ॥ १७१॥१
सर्वाभिर्भाषाभिः समन्वितं गद्यपद्यमिश्राभिः।
सर्वैश्चालङ्कारैर्लक्षणषट्त्रिशता२ युक्तम्॥ १८०॥
नानाविभूतिसंयुतमृद्धिविलासादिभिर्गुणैर्युक्तम्।
अङ्कप्रवेशकाढ्यं रूपकमिह नाटकं नाम॥ १८१॥
नृपतीनां यच्चरितं नानारसभावसंश्रितं बहुधा।