सुखदुःखोत्पत्तिकृतं वाच्यं तन्नाटके भवति॥ १८२॥
तत्रावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात्।
कर्तव्योऽङ्कः सम्यग्गुणान्वितो नाट्यतत्त्वज्ञैः॥ १८३॥
यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः।
किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः॥ १८४॥
ये नायका निगदितास्तेषां प्रत्यक्षचरितसम्भोगः।
नानावस्थान्तरितः कार्यस्त्वङ्को यथार्थरसः॥ १८५॥
नायकदेवीपरिजनपुरोहितामात्यसार्थवाहानाम्।
नैकरसान्तरविहितो ह्यङ्क इति बुधैः स विज्ञेयः॥ १८६॥