तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयोस्तिर्यगम्भः।
संसर्पन्त्या सपदि भवतः स्त्रोतसि च्छायया सा स्यादस्थानोपगतयमुनासङ्गमेनाभिरामा ॥ २३६॥
पदार्थानां परस्परासङ्गतिर्विरोधः। यथा— (सक. ३.६०)
क्व युवतिमार्दवं क्व च महाहवदारुणता क्व च वलयी करः क्व करिदन्तजमुष्टिरसिः।
क्व च नवयौवनं क्व कुसुमायुधनिस्स्पृहता तव ललनाविचेष्टितविरुद्धमहो ललितम्॥ २३७॥
दिग्वासा यदि तत् किमस्य धनुषा सास्त्रस्य किं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम्।
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिरशेषं वपुः॥ २३८॥
विषमम्, असङ्गतिः, प्रत्यनीकम् अधिकं च विरोध एव। तेषु —