ते तु यावन्त एवाजौ तावद्धा ददृशे स तैः॥ २४२॥
उक्तार्थप्रसिद्धये प्रसिद्धतत्तुल्यार्थप्रदर्शनं दृष्टान्तः।
स चतुर्धा— पूर्वः, उत्तरः, समः, विपरीतश्च। तेषु —
ण उव वरकोअण्डदण्डए पुति माणुसे वि एमेअ।
गुणविज्जए ण जाअइ वंसुप्पण्णे वि टङ्कारो॥ २४३॥
(न पुनर्वरकोदण्डदण्डके पुत्रि ! मानुषेऽप्येवमेव।
गुणवर्जिते न जायते वंशोत्पन्नेऽपि टङ्कारः॥)