स षोढा—एकव्यतिरेकः, उभयव्यतिरेकः, सदृशव्यतिरेकः, असदृशव्यतिरेकः, स्वजातिव्यतिरेकः, स्वव्यक्तिव्यतिरेक इति। तत्र—
एकव्यतिरेको यथा— (रुद्रटा. ५.८७)
सकलङ्केन जडेन च साम्यं दोषाकरेण ते कीदृक्।
अभुजङ्गः समनयनः कथमुपमेयो हरेणासि॥ २४७॥
उभयव्यतिरेको यथा— (काव्याद. २.१८३)
अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानापि।
असावञ्जनसंकाशस्त्वं तु चामीकरच्छविः॥ २४८॥
सदृशव्यतिरेको यथा— (काव्याद. २.१९४)
चन्द्रोऽयमम्बरोत्तंसो हंसोऽयं तोयभूषणम्।
नभा नक्षत्रमालीदमिदमुत्कुमुदं पयः॥ २४९॥