आत्मापि न खलु महानपि अथात्मना समानः॥)
परस्परमुपकार्योपकारकादिभावोऽन्योन्यम्।
तत्त्रिधा—अभिधीयमानं, प्रतीयमानम् उभयरूपं चेति। तेषु —
अभिधीयमानं यथा— (कुसं. १.४२)
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य।
अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः॥ २५३॥
प्रतीयमानं यथा— (गास. २.६१)
उद्धच्छो पिअइ जलं जह जह विरलंगुली चिरं पहिओ।
पावालिआ वि तह तह धारं तणुअं पि तणुएई॥ २५४॥