असदृशव्यतिरेको यथा— (काव्याद. २.१९९)
अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम्।
इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम्॥ २५०॥
स्वजातिव्यतिरेको यथा— (काव्याद. २.१९७)
अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः॥ २५१॥
स्वव्यक्तिव्यतिरेको यथा— (सक. ३.९१)
अण्णोण्णोहिं सुचरिअसअहिं अणुदिण वड्ढिइअ माणु।
अप्पण वि ण हु महु पि अह अप्पाणेण समाणु॥ २५२॥
(अन्योन्यैः सुचरितशतैरनुदिनं वर्धते मानः।