पुरुषस्य वा तदस्मिन्नङ्कमुखमिति व्यपदिशन्ति॥ २०६॥
अङ्कान्तरे पराङ्को निपतति यस्मिन् प्रयोगमासाद्य।
बीजार्थयुक्तियुक्तो गर्भाङ्को नाम स ज्ञेयः॥ २०७॥
अन्तर्यवनिकसंस्थैर्मागधसूतादिभिस्तु यः क्रियते।
अर्थस्योपक्षेपोऽनेकविधश्चूलिका सापि॥ २०८॥
नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत्।
प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि॥ २०९॥
यत्र कविरात्मबुद्धया वस्तु शरीरं च नायकं चैव।
औत्पत्तिकं प्रकुरुते तज्ज्ञेयं प्रकरणं नाम॥ २१०॥