अर्थाभिधानभूतः प्रवेशकः स्यादनेकार्थः॥ २०१॥
बह्वाश्रयमप्यर्थं प्रवेशकैः संक्षिपेत् प्रबन्धेषु।
अङ्केषु संप्रयुक्तो जनयति खेदं प्रयोगस्य॥ २०२॥
यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात्।
वृत्तान्तः स्वल्पकथैः प्रवेशकैस्सोऽभिधातव्यः॥ २०३॥
शुद्धस्सङ्कीर्णो वा द्विविधो विष्कम्भकश्च विज्ञेयः।
मध्यमपात्रश्शुद्धः सङ्कीर्णो मध्यनीचकृतः॥ २०४॥
अङ्कमुखं गर्भाङ्कः कार्योऽस्मिंश्चूलिकापि वा कुशलैः।
मा भूदितिवृत्तानां विच्छेदो विस्तरो वेति॥ २०५॥
अङ्कमुखं विश्लिष्टं यत्रोपश्लिष्यते स्त्रिया वाक्यैः।