सुवदना— सहि भाणुमदि ! कीस दाणीं तुमं सिविणअदंसणमेत्तकस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअत्थिरभावा अणिमित्तं संतप्पसि। (सखि भानुमति ! कस्मादिदानीं त्वं स्वप्नदर्शनमात्रकस्य कृते अभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वा एवं विगलितस्थिरभावा अनिमित्तं सन्तप्यसे ?)
भानुमती—एव्वं णेदम्। किं उण तं(?) मे सिविणअणिमित्तं आउइ (आउल)दंसणं पडिभादि। (एवं नु एतत्। किं पुनस्तत् में स्वप्ननिमित्तमाकुलदर्शनं प्रतिभाति ?) ॥ १९६॥
क्रीडाविलोभनार्थं च हास्यं नर्मेति कीर्तितम्॥ १९७॥
विदूषकः—(कर्णं दत्त्वा, ससम्भ्रमं राजानं हस्ते गृहीत्वा) भो वयस्स ! एहि पलाअह्म। एस्सिं बउलपाअपे किं वि भूदं पडिवसदि। जइ मं ण पत्तिआआसि, ता अग्गदो भविअ सअं ए(व्व) आअण्णेहि। {भो वयस्य ! (एहि प)लायावः। अस्मिन् वकुलपादपे किमपि भूतं प्रतिवसति। यदि मां न प्रत्याययसि, तदग्रतो भूत्वा स्वयमेवाकर्णय।}
राजा—(आकर्ण्य) वयस्य ! शारिकेयम् इति॥