अन्ववायवयोरूपलावण्यादयो बाह्याः,
शीलवैदग्ध्यमाहाभाग्यसौभाग्यादयश्चान्तराः,
ये तु दोषा अप्याश्रयविशेषावस्थाविशेषाद्युपाधेर्गुणत्वमाश्रयन्ते ते वैशोषिकाः।
सामण्णसुंदरीणं विब्भममावइह अविणओ च्चेअ।
धूमो च्चिअ पज्जलिआहि बहुमओ सुरहिदारूणं॥ २०५॥
(सामान्यसुन्दरीणां विभ्रममावहत्यविनयं एव।
धूम एव प्रज्वलितानां बहुमतः सुरभिदारूणाम्॥)
काव्यशरीरेऽपि ते त्रिधैव। तत्र —