दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः।
चकार यस्याध्वरधूमसञ्चयोमलीमसः शुक्लतरं निजं यशः॥ २३९॥
सा उप्पडी गोट्ठउहि॥ २४०॥ (द्र॰ ८.०५, पृ.३९८)
प्रत्यनीकं यथा—(रुद्रटा. ७.५५)
उत्कण्ठा सन्तापो रणरणको जागरस्तनोस्तनुता।
फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा॥ २४१॥
एको दशरथिः कामं यातुधानाः सहस्त्रशः।