भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 791 to 800 of 2002 verses
यथा रत्‍नावल्याम्—

काञ्चनमाला— देवि ! अअं सो रत्तासोअपाअवो जहिं देवी अणंगस्स पूआं णिव्वत्तइस्मिदि। (देवि ! अयं स रक्ताशोकपादपः यत्र देवी अनङ्गस्य पूजां निर्वर्तयिष्यति।)

वासवदत्ता— तेण हि अवणेहि मे पूआणिमित्तउपअरणाई। (तेन हि उपनय मे पूजानिमित्तोपकरणानि।)

सागरिका— देवि ! ऊणइं (देवि ! उपनीतम्।)

वासवदत्ता— (निरूप्यात्मगतम्) अहो पमादो परिअणस्स। जस्स जेव्व दंसणपधादो पअत्तेण रक्खीअदि, तस्स जेव्व अज्ज दिठ्ठिगोअरगदा। (प्रकाशप्) हला साअरिए ! कीस तुमं मअणवराहिण्ण परिअणे मअणमहूस्सवे सारिअं मोत्तूण इध आगदा ? ता तहिं एव्व गच्छ। एअं सव्वं कंचणमालाए समप्पेहि। {अहो प्रमादः परिजनस्य ! यस्य एव दर्शनपथात् प्रयत्‍नेन रक्ष्यते तस्यैवाद्य दृष्टिगोचरगता। हला सागरिके ! कस्मात् त्वं मदनपराधीने परिजने मदनमहोत्सवे ? शारिकां मुक्त्वा इहागता ? तत् तत्रैव गच्छ। एतत् सर्वं काञ्चनमालायै समर्पय।}

सागरिका— जं देवी आणवेदि (यद् देवी आज्ञापयति) (इति कतिचित् पदानि गत्वा) सारिआ दाव मए सुसंगदाए समप्पिदा। एदं वि अत्थि पेक्खिदुं मे कौदूहलं। तं जहा नातादस्स अंतेउरे भअउ अणंगो अच्‍चीअदि इहापि(वि) तह एव्व, आदु अण्णह ता अलक्खिदा भविअ पेक्खिस्सं। {शारिका तावत् मया सुसङ्गतायै समर्पिता। (एतदप्यस्ति) प्रेक्षितुं मे कौतूहलम् — तद् यथा तातस्यान्तः पुरे भगवाननङ्गोऽर्च्यते, इहापि तथैव। अथवा अन्यथा इति। तदलक्षिता भूत्वा प्रेक्षिष्ये।} ॥ १८०॥

यथा च वेणीसंहारे

द्रौपदी— णाह ! पुणो तुए अहं आअच्छिअ समासासइदव्वा।

(नाथ ! पुनस्त्वयाऽहमागत्य समाश्वासयितव्या।)

भीमः ! ननु पञ्चालराजतनये ! किमद्याप्यलीकाश्वासनादिभिः।

Showing 791 to 800 of 2002 verses