द्रौपदी— णाह ! मा क्खु जण्णसेणीपरिभवुद्दीविदकोवाणला सरीरणरवेक्खं परिक्कामिस्सथो। जदो अप्पमत्तसंचरणीआणि रिउबलाणि सुणीअंति। (नाथ! खलु याज्ञसेनीपरिभवोद्दीपितकोपानला शरीरनिरपेक्षं परिक्रामिष्यथ। यतोऽप्रमत्तसञ्चरणीयानि रिपुबलानि श्रूयन्ते।)
अन्योन्यास्फालभिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ।
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे सङ्ग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः॥ १७८॥
सुखदुःखान्वितो योऽर्थस्तद् विधानमिति स्मृतम्॥ १७९॥