द्रौपदी—अस्सुदपुव्वं क्खु दे एदिसं वअणं। णाह ! पुणो वि भण। (अश्रुतपूर्वं खलु ते ईदृशं वतनम्। नाथ ! पुनरपि भण) इति॥
बीजार्थस्योपगमनं समाधानमिति स्मृतम्॥ १७६॥
चेट्यौ— णहि णहि विण्णवेदि। (नहि नहि, विज्ञापयति।)
राजा— (विहस्य, सादरम्) मदनिके ! नन्वाज्ञापयतीत्येतदेव रमणीयम्, विशेषतोऽद्य मदनोत्सवे। तत् किमाज्ञापयति देवी ?।
चेट्यौ—जहा अज्ज मए मअरंदुज्जाणे रत्तासोअणअवट्ठिअस्स भअवदो कुसुमाउहस्स पूआ णिव्वत्तइदव्वा x x x सं(?) अय्यउत्तेण होदव्वं त्ति। (यथा अद्य मया मकरन्दोद्याने रक्ताशोकपादपस्थितस्य भगवतः कुसुमायुधस्य पूजा निर्वर्तयितव्या आर्यपुत्रेण सन्निहितेन भवितव्यम् इति।)
विदूषकः— भो ! उट्ठेहि लहु गच्छह्माबंहणस्स मे सोत्थिवाअणं भविस्सिदि त्ति। (भो ! उत्तिष्ठ, लघु तत्र गच्छावः। ब्राह्मणस्य मे स्वस्तिवायनं भविष्यति इति)॥ रत्ना. १.१६