नन्विदानीमेवोक्तं बहूनामपि भवन्तीति? द्वयोर्द्वयोः सर्वप्रकारैरप्युदाहृतत्वाद् वाक्ये च गुणरसयोगस्य नित्यत्वादुल्लेखवन्त एव सङ्करा गृह्यन्ते, नानुल्लेखवन्तः।
उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम्।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम्॥ १७२॥
अत्र श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणे अर्थप्राकट्यं प्रसादः, विशेष्यानुपादानादसम्पूर्णवाक्यता नेयत्वमिति दोषगुणश्च नोल्लिखति, विभाव्यमानस्तु प्रतीयते। ज्ञापकहेत्वर्थालङ्कारे 'तासां त्व प्रभव' इति कारकहेतुरर्थालङ्कारः क्रमरचनेति शब्दालङ्कार १नोल्लिखति विभाव्यमानस्तु प्रतीयते। प्रेयसि रसे विस्मयप्रकर्षो हर्षोत्कर्षं (र्षश्च?) नोल्लिखति विभाव्यमानस्तु प्रतीयते। एवं
किं येन सृजसि व्यक्तमुत येन बिभर्षि तत्।
अथ यस्तस्य संहर्ता भागः कतम एष ते॥ १७३॥
अत्र वितर्कालङ्कारे कारकहेतुः क्रमरचना च नोल्लिखति, प्रसादार्थगुणे सुशब्दता बन्धवैकट्यं च नोल्लिखति, मतिप्रकर्षे प्रीत्युत्कर्षो वितर्कश्च नोल्लिखति। विभाव्यमानास्तु सर्व एव प्रतीयन्ते। तथा