भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 781 to 790 of 1530 verses
शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः।

रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १७४॥

अत्र सौकुमार्यशब्दगुणे समासभूयस्त्वमोजः श्लाघ्यविशेषणयोग उदात्तत्वं च नोल्लिखति। अनुप्रासशब्दालङ्कारे हेतुरर्थालंकारो जातिश्च नोल्लिखति। विस्मयभावे रतिर्मतिश्च नोल्लिखति। विभाव्यमानाश्च सर्व एव प्रतीयन्ते। अपि च

पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका।

कस्य कामातुरं चेतो वारुणी न करिष्यति॥ १७५॥

(काव्याद. १.८४)

अत्र हेतुसमाध्यलङ्कारयोः श्लेषरूपकालङ्कारौ कान्त्युदात्तत्वगुणयोरोजः— १. नोल्लिखतीत्येवाऽत्रासौ वाक्ययोगः। प्रसादगुणौ आलम्बनविभावोद्दीपनविभावयोर्मतिवितर्कौ च नोल्लिखति। ते तु विभाव्यमानाः प्रतीयन्ते। किंच —

हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं१ नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः।

चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥ १७६॥

(मेघ. ६५)

Showing 781 to 790 of 1530 verses