शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः।
रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १७४॥
अत्र सौकुमार्यशब्दगुणे समासभूयस्त्वमोजः श्लाघ्यविशेषणयोग उदात्तत्वं च नोल्लिखति। अनुप्रासशब्दालङ्कारे हेतुरर्थालंकारो जातिश्च नोल्लिखति। विस्मयभावे रतिर्मतिश्च नोल्लिखति। विभाव्यमानाश्च सर्व एव प्रतीयन्ते। अपि च
पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका।
कस्य कामातुरं चेतो वारुणी न करिष्यति॥ १७५॥
अत्र हेतुसमाध्यलङ्कारयोः श्लेषरूपकालङ्कारौ कान्त्युदात्तत्वगुणयोरोजः— १. नोल्लिखतीत्येवाऽत्रासौ वाक्ययोगः। प्रसादगुणौ आलम्बनविभावोद्दीपनविभावयोर्मतिवितर्कौ च नोल्लिखति। ते तु विभाव्यमानाः प्रतीयन्ते। किंच —
हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं१ नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥ १७६॥