प्रवृत्तिनिवृत्त्योर्निबन्धनं हेतुः। स षोढा—
प्रवर्तकः, निवर्तकः, प्रयोजकः, ज्ञापकः, अभावहेतुश्चित्रहेतुश्च। तत्र —
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभावाश्च सम्पदः॥ २२३॥
निवर्तको यथा—(शाकु. ६.२२)
प्रजागरात् खिलीभूतस्तस्याः स्वप्ने समागमः।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥ २२४॥
प्रयोजको यथा—(काव्याद. २.१४३)
मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।