सुखार्तस्योपगमनं प्राप्तिरित्यभिधीयते॥ १७४॥
यथा रत्नावल्यां वसन्तकेन मदनमहोत्सवे वर्णि X X X
दधद्वसन्तकेनानेकविधं मदनिकां नृत्यन्तीं पश्यन् सुखातिशयमनुभूतवान्।
चेटी— (सामन्दं) भट्टिणि! परिकुविदो विअ कुमालो लक्खीअदि। (भट्टिणि! परिकुपित इव कुमारो लक्ष्यते।)
द्रौपदी— हञ्जे! जदि एव्वं ता अवहीरणा वि एसा समासासेदि। ता इह एव्व उपविसिअ (सुणामो) दाव णाहस्स ववसिदं। {हञ्जे! यद्येवं तदवधीरणाऽप्येषा समाश्वासयति। तत् इहैव उपविश्य श्रृणुगस्तावन्नाथस्य व्यवसितम्।}
मथ्नामि कौरवशतं समरे न कोपाद् दुश्शासनस्य रुधिरं न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन॥ १७५॥