यथा च वेणीसंहारे— (वेसं. १.२१)
मन्थायस्तार्णवाम्भःप्लुतकुहर—वलन्मनदरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः।
कृष्णाक्रोधाग्रदूतः कुरुशतनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्॥ १७०॥
सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते॥ १७१॥
यथा रत्नावल्यां राजा—(रत्ना.१.९)
राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः।