तन्निष्पपत्तिः परिन्यासो विज्ञेयः कविभिः सदा॥ १६६॥ (नाशा. १९.६६)
यथा रत्नावल्यां यौगन्धरायणः — तदेवं निष्पन्नप्रायमपि प्रभुप्रयोजनं न मे धृतिमावहतीति कष्टोऽयं खलु भृत्यभावः भर्तुः इति यावत्। यथा च वेणीसंहारे—(वेसं. १.२०)
चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः॥
गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम्॥ १६८॥
यथा रत्नावल्यां यौगन्धरायणः रत्नावलीतो विलोभनार्थमाह—
'विश्रान्तविग्रहकथः' इत्युपक्रम्य,
'वत्सेश्वरः कुसुमचाप इवाभ्युपैति'॥ १६९॥