विदूषकः— किं एदेहिं वक्कभणिदेहिं ? उज्जुअं एव्वं किं ण भणसि जह मं णासाअअंतीए त्ति। अण्णहा को अण्णो कुसुमचावव्ववदेसेण णिण्हवीअदि। {किमेतैर्वक्रभणितैः ? ऋजुकमेवं किं न भणसि यथा माम् अनासादयन्त्या इति। अन्यथा कोऽन्यः कुसुमचापव्यपदेशेन निह्नूयते ?} (इत्युच्चैर्हसति॥)
यथा च वेणीसंहारे (प्रविश्य)
दुर्योधनः— किमुद्धतं प्रलपसि ?
भग्नं भीमेन भवतो मरुता रथकेतनम्॥ २०२॥