सुखानां सन्निवेशो यः स निरोधः प्रकीर्तितः॥ २०३॥
राजा— धिङ्मूर्ख! किमुच्चैर्हसता त्वयेयं त्रासिता? येनोड्डीयान्यतः क्वापि गता इति।
यथा(च) वेणीसंहारे (भानुमत्या सह सुखासीने राजनि प्रविश्य जयद्रथमाता दुःशला च।)
माता— परित्ताअदु परित्ताअदु कुरुणाहो। (परित्रायतां परित्रायतां कुरुनाथः।)
दुर्योधनः — समाश्वसिहि। कुशलं समराङ्गणेष्वप्रतिहतरथस्य महाराजजयद्रथस्य।
माता— कुदो कुदो कुसलम्? (कुतः कुतः कुशलम्?) इत्यादि॥ २०४॥