विशेषवचनं यत्तु तत् पुष्पमिति संज्ञितम्॥ २०७॥ (नाशा. १९.७५)
विदूषकः— भो एदं खु तं जं मए भणिदं तुमं एव्व एत्थं आलिहिदो। अण्णहा को अण्णो कुसुमचापव्ववदेसेण णिण्हवीअदि इति। (भो, एतत्खलु़ १. स्याननुयोगस्तु इति रा. तत् यन्मया भणितं त्वमेवेतमिलिखितः। अन्यथा कोऽन्यः कुसुमचापव्यपदेशेन निह्रूयत इति।)
राजा—अलं विकल्पेन। स्वप्नदर्शनमनया वर्णितम्। मया पुनर्मन्द— धिया(ऽन् )यथैव संभावितम् इति॥ २०८॥
प्रत्यक्षरूक्षं यद् वाक्यं तद् वज्रमिति कीर्तितम्॥ २०१॥
राजा—सुसङ्गते, कथमहमिहस्थो भवत्या विज्ञानः?