दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः॥ २३०॥
सुविहितवस्तुनिबन्धो विप्रत्ययकारकश्चैव।
उद्धतपुरुषप्रायस्त्रीरोषग्रथितकाव्यबन्धश्च ॥ २३१॥
संक्षोभविद्रवकृतः संस्फोटकृतश्च स ज्ञेयः।
तत्र च वधेप्सितानां वधोऽप्युदग्रो भवेन्न पुरुषाणाम्॥ २३२॥
किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम्।
स्त्रीभेदनापहरणोपमर्दनप्राप्तवस्तुशृङ्गारः॥ २३३॥
ईहामृगो विधेयश्चतुरङ्कविभूषितस्तज्ज्ञैः।
यद् व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव॥ २३४॥
ईहामृगेऽपि ते स्युः केवलममरस्त्रिया योगः।