वस्तुसमापनविहितो द्विनाडिकः स्यात् तृतीयोऽस्मिन्॥ २३९॥
नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम्।
तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम्॥ २४०॥
अङ्केऽङ्के सम्बन्धः कर्तव्यः काव्यबन्धमासाद्य।
अर्थं हि समवकारेष्वप्रतिसम्बन्धमिच्छन्ति॥ २४१॥
वस्तुगतिक्रमविहितो दैववशाद्वा परप्रयुक्तो वा।
सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः॥ २४२॥
युद्धजलसंभ्रमो वा वाय्वग्निगजेन्द्रसंभ्रमकृतो वा।
नगरोपरोधजो विज्ञेयो विद्रवस्त्रिविधः॥ २४३॥
विविधश्चात्र विधिज्ञैः पृथक्पृथकक्काव्यबन्धविहितार्थः।