भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 961 to 970 of 1530 verses
त्रिविधकृतः शृङ्गारो ज्ञेयो धर्मार्थकामेषु॥ २४४॥

यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा।

व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः॥ २४५॥

अर्थस्याप्‍तिर्यस्मिन् भवति च बहुधा स चार्थशृङ्गारः।

स्त्रीसंप्रयोगविषये ह्यर्थार्थमपीष्यतेऽभिरतिः॥ २४६॥

कन्याविलोभनकृतः प्राप्‍तौ स्त्रीपुंसयोः स रत्यैव।

निभृतं सावेगं वा विज्ञेयः कामशृङ्गारः॥ २४७॥

उष्णिग्गायत्र्याद्यान्यन्यानि च यानि बन्धकुटिलानि।

वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि॥ २४८॥

एवं कार्यः प्राज्ञैर्नानारससंश्रयः समवकारः।

Showing 961 to 970 of 1530 verses