भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 961 to 970 of 2002 verses
विदूषकः — सुसङ्गदे ! ण हु साअरिअं वज्जिअ अण्णं पिअवअस्सस्स असत्थदाए कारणं। ता चिंतेहि एत्थ को उवाओ त्ति। अज्जए चित्तफळअवुत्तंतसंकिदाए साअरिअं मप(म) रक्खिदु समप्पअंतीए जहावण . . . (जं णेवत्थं मे) पसादीकिदं ता तेण एव्व विरइदभट्टिणीवेसं साअरिअं गेह्‍िणअ अहं वि कंचणमालावेस (धा)रिणी भविअ पदोसे आगमिस्सं। तुमं पि इध एव्व पडिवालइस्ससि। तदो माहवीलदामंडवे भट्टिणो तए सह समाअमो हविस्सदि। (सुसङ्गते ! न खलु सागरिकां वर्जयित्वा अन्यत् प्रियवयस्यस्यास्वस्थतायाः कारणम्। तत् चिन्तयात्र क उपाय इति। आर्यया चित्रफलकवृत्तान्तशङ्कितया सागरिकां मम रक्षितुं समर्पयन्त्या यन्नेपथ्यं मे प्रसादीकृतं ततस्तेनैव विरचितभट्टिनीवेषां सागरिकां गृहीत्वा अहमपि काञ्चनमालावेषधारिणी भूत्वा प्रदोषे आगमिष्यामि। त्वमपि इहैव प्रतिपालयिष्यसि। ततो माधवीलतामण्डपे भर्तुः तया सह समागमो भविष्यति।}

यथा च वेणीसंहारे द्रौपदीमुद्दिश्य सूतोऽश्वत्थामानमाह—(वेसं. ३.१०)

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा।

तच्छुत्वाऽसौ दयिततनयः प्रत्ययात् तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच॥ २१४॥

२६. (३.२ मार्गः)

तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते॥ २१५॥

(नाशा. १९.७८)

यथा रत्‍नावल्यां तृतीयेऽङ्के काञ्चनमालया सर्वोऽसौ सुसङ्गतावसन्तकयोः कपटप्रपञ्चो राज्ञश्चास्वस्थास्थताप्रच्छादनं तत्त्वत उपलभ्य मदनिकायै पुनश्च वासवदत्तायै निवेदितम् इति।

यथा य वेणीसंहारे

राजा— कथं पुनराचार्यः शस्त्रग्रहणसमये सस्त्रमुज्झितवान् ?

Showing 961 to 970 of 2002 verses