तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम्।
आचार्यः सुतनिधनं निशम्य संख्ये किं शस्त्रग्रहसमये विशस्त्र आसीत्॥ २१८॥
यच्चातिशयवद् वाक्यं तदुदाहरणं स्मृतम्॥ २१९॥
विदूषकः— ही ही ! कोसंबीरज्जलाहेण वि ण तादिसो पिअवअस्सस्स मणपरिओसो आसी जादिसो अज्ज मम सआसादो पिअवअणं सुणिअ भविस्सदि त्ति तक्केमि। (ही ही ! कौशाम्बीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य मनःपरितोषः आसीद् यादृशोऽद्य मम सकाशात् प्रियवचनं श्रुत्वा भविष्यतीति तर्कयामि।)