षोडशनायकबहुलस्तज्ज्ञैर्नानाश्रयविशेषः॥ २५४॥
डिमलक्षणमप्यभिहितमिदमुद्देशक्रमेण संक्षेपात्।
उत्सृष्टिकाङ्कभाणप्रहसनवीथीरथो वक्ष्ये॥ २५५॥
प्रख्यातवस्तुविषयस्तेष्वप्रख्यातवस्तुविषयो वा।
दिव्यपुरुषैर्वियुक्तश्शेषैश्च समन्वितः पुंभिः॥ २५६॥
करुणरसप्रायकृतो नियुद्धयुद्धोद्धतप्रहारश्च।
स्त्रीपरिदेवितबहुलो निर्वेदितवाक्यभाषश्च॥ २५७॥
नातिव्यायतचेष्टः सात्वत्यारभटिकैशिकीहीनः।
कार्यः काव्यविधिज्ञैस्सततमिहोत्सृष्टिकाङ्कस्तु॥ २५८॥