वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ २७२॥
चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन रचिता मनसा कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥ २७३॥
अनिर्णयान्तमिथ्यारूपो यथा—(मेघ. १४)
अद्रेः शङ्गं हरति पवनः किंस्विदित्युन्मुखीभि— र्दृष्टोच्छ्रायश्चकितचकितं मुग्धसिद्धाङ्गनाभिः।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्॥ २७४॥
अमिथ्यारूपो यथा— (किराता. १८.९)
अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना।
समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः॥ २७५॥