भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1001 to 1010 of 1770 verses
चिन्ताया यथा—(उराच. २.२७)

पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।

बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥ २७९॥

आदिग्रहणात्परप्रयत्‍नतो यथा—(शाकु. ६.२१)

दर्शनपथमायाता साक्षादिव तन्मयेन हृदयेन।

स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता॥ २८०॥

स्वप्‍नस्मृतिः, प्रत्यभिज्ञानं च स्मरणमेव। तयोः —

स्वप्‍नस्मृतिर्यथा—(विसा. १.१५)

जाने स्वप्‍नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभूत् प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्‍नासपत्‍नं महः।

तस्यान्तर्नखनिस्तुषीकृतशरच्‍चन्द्रप्रभैरङ्गकै— र्दृष्टा काप्यबला बलात् कृतवती सा मन्मथं मन्मथम्॥ २८१॥

Showing 1001 to 1010 of 1770 verses