हसिअं सहत्थतालं सुक्खवडं उवगएहि पहिएहि।
पत्थप्फलसारिच्छे उड्डीणे पूसवंदस्सिं/म्मि॥ २८४॥
(हसितं सहस्ततालं शुष्कवटमुपगतैः पथिकैः।
पत्रफलसदृक्षे उड्डीने शुकवृन्देऽस्मिन्/वृन्दे॥)
कारणबाधिता यथा—(सक. ३.११०)
कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम्।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति जनितव्रीडाहासः प्रियाहसितो हरिः॥ २८५॥
तत्त्वे अतत्त्वरूपापि त्रिधा— हानहेतुः, उपादानहेतुः, उपेक्षाहेतुश्च। तासु— हानहेतुर्यथा—(सक. ३.१११)
सो मुद्धमओ मअतण्हिआहिं तह दूमि तुह आसाहिं/दूमिओ हआसाहिं।