विष्कम्भकप्रवेशकरहितो यस्त्वेकभाषया भवति॥ २७२॥
अप्राकृत—संस्कृतया स सट्टको नाटिकाप्रतिमः।
काव्यं गोपुच्छाग्रं कर्तव्यं नाटिकादिषु प्राज्ञैः॥ २७३॥
ये तूदात्ता भावास्ते सर्वे पृष्ठतः कार्याः।
सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम्॥ २७४॥
निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः।
यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम्॥ २७५॥
तद् भारतेऽत्र वर्षे कर्तव्यं काव्यबन्धेषु।
तस्माद् भारतमिष्टं वर्षेष्वन्येषु नित्यकालं हि॥ २७६॥
हृद्या सर्वा भूमिः शुभगन्धा हेमरत्नमयी।