लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः।
स प्रहसने प्रयोज्यो धूर्तजनविवादसम्पन्नः॥ २६३॥
भगवत्तापसविप्रैरन्यैरपि हासवादसम्पन्नम्।
नीचजनसंप्रयुक्तं परिहासाभाषणप्रायम्॥ २६४॥
वेश्यानपुंसकविटैर्वातिकदासीजनेन संकीर्णम्।
अनिभृतवेषपरिच्छदचेष्टितकरणैश्च संपन्नम्॥ २६५॥
अविकृतभाषाचारं विशेषभाषोपहासरचितपदम्।
नियतगतिवस्तुविषयं शुद्धमिह प्रहसनं भवति॥ २६६॥
उद्घात्यकादिभिरिदं वीथ्यङ्गैर्मिश्रितं भवेन्मिश्रम्।
(१०. वीथी) वीथी स्यादेकाङ्का द्विपात्रहार्यैकहार्या वा॥ २६७॥