धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव।
वस्तुसमाङ्कः कार्यः सततं काव्ये बुधैर्भाणः॥ २५९॥
आत्मानुभूतशंशी परसंश्रयवर्णनाविशेषयुतः।
विविधाश्रयश्च भाणो विज्ञेयः सैकहार्यश्च॥ २६०॥
परवचनमात्मसंस्थं परवचनैः सोत्तरैर्ग्रथितवाक्यम्।
आकाशपुरुषकथितैरङ्गविकारैरिहाभिनयेत् ॥ २६१॥
प्रहसनमिह विज्ञेयं द्विविधं शुद्धं च सङ्कीर्णम्।
वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम्॥ २६२॥