सर्वरसलक्षणाढ्या समन्विताङ्गैरियं त्रयोदशभिः।
प्रथमो(अधमो)त्तममध्यमाभिर्युक्तः स्यात् प्रकृतिभिस्तिसृभिः॥ २६८॥
इति दशरूपकमेतद् भरताचार्यानुसारतो गदितम्।
(११. नाटिका) प्रकरणनाटकभेदो रूपकमिह नाटिका भवति॥ २६९॥
स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी।
बहुगीतनृत्तवाद्या रतिसंभोगात्मिका चैव।
राजोपचारयुक्ता शृङ्गाराभिनयभावसंयुक्ता॥ २७०॥
नायकदेवीपरिजनसमन्विता नाटकप्रकृतिः।
(१२. सट्टकः) प्रकरणसमुद्भवा पुनरुत्पाद्यं वस्तु नायकं नृपतिम्॥ २७१॥
अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या।