अश्वत्थामा— राजन् कौरवेश्वेर ! किमद्यापि युक्तायुक्तविचारणया ?॥ २२४॥
प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा— मकेशवमपाण्डवं भुवनमद्य निस्सोमकम्।
इयं परिसमाप्यते रणकथाऽद्य दोश्शालिना— मपैतु नृपकाननाचिगुरुरद्य भारो भुवः॥ २२५॥
रूपानुरूपगमनमनुमानमिति स्मृतम्॥ २२६॥
विदूषकः—(निरूप्य) भो एदं खु (संस)त्तं (बहल)पत्तपादवदाए पिंडीकदंधआरं विअ उज्जाणं। ता कधं एत्थ मग्गो लक्खीअदि ? (भो, एतत् खलु संसक्तबहलपत्रपादपतया पिण्डीकृतान्धकारमिव उद्यानम्। तत्कथमत्र मार्गो लक्ष्यते ?)
राजा— वयस्य ! सुज्ञातमेवैतत्। तथा हि—(रत्ना. ३.८)