अश्वत्थामा— राजन् दुर्योधन ! अभीष्मद्रोणं च संप्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेन नैवंविधेनान्येन वा शक्येते निवारयितुम्। अतः स्वयं भ्रातुः प्रतीकारपरो भव, इति ॥ २२९॥
गर्भस्योद्भेदनं यत्तु २संक्षिप्तिरिति गीयते॥ २३०॥
राजा—(मुखमुद्घाट्य, उन्नमय्य) विलोक्य च, सविषादं कथं देवी वासवदत्ता ! (विदूषकमुद्दिश्य) मूर्ख, किमेतत् ?
विदूषकः—(सभयं) भो अह्माणं जीविदसंसओ। (भोः, अस्माकं जीवितसंशयः !)
यथा च वेणीसंहारे चतुर्थेऽङ्के
सुन्दरकः—अह वा किं एत्थ देवं उवालहामि। तस्स क्खु एदं १. रतिहर्षोत्सवादीनां प्रार्थना प्रार्थना भवेत्। नाशा. १९.८१ २. 'साऽऽक्षि'—इति नाशा. १९.८१ णिब्भच्छिअविउरवअणवीअस्स परिभूदपिदामहहिदोवदेसंकुरस्स सउणिप्पोच्छाहणावरूढमूलस्स जदुगेहजूदविससाहिणो पंचाली— केसग्गहणकुसुमस्स फलम्, इति। (अथ वा किमत्र दैवमुपालभे ? तस्य खल्वेतद् निर्भर्त्सितविदुरवचनबीजस्य परिभूतपितामह— हितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनावरूढमूलस्य जतुगृह— द्यूतविषशाखिनः पाञ्चालीकेशग्रहणकुसुमस्य फलम्, इति।}॥ २३१॥