राजा—किञ्चास्य किरीटिना निहता धौरेयाः क्षतस्सारथिर्भग्नो वा रथः ?
पुरुषः— देव ण भग्गो रहो। भग्गो दे मणोरहो। (देव ! न भग्नो रथः। भग्नस्ते मनोरथः)
राजा—ससंरम्भं किमविस्पष्टवचनैराकुलमपि पर्याकुलयसि मे हृदयम् ? इति।
कपटस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाः॥ २३३॥
यथा रत्नावल्यां तृतीयेऽङ्के (रत्ना. ३.१४)
राजा—एवमपि प्रत्यक्षदृष्टव्यलीकः किं विज्ञापयामि ?
आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदिपरं करुणा मयि स्यात्॥ २३४॥