सुन्दरकः—तदो अ देव सत्तिखंडणामरिसिदेण गंडीविणा भणि(अ)—रे रे दुज्जोहणप्पमुहा कुरुकुल—अविणअ—णावाकण्णधार कण्ण ! तुम्हेहिं बहुहिं महारहेहिं पडिवारिअ एआई मम पुत्तओ अहिमण्णु व्वावादिदो। अहं उण तुम्हाणं पेक्खन्ताणं एव्व विससेणं अज्ज सुमरिदव्वसेसं करोमि। (ततश्च देव ! शक्तिखण्डनामर्षितेन गाण्डीविना भणितम्—रे रे दुर्योधनप्रमुखाः, कुरुकुलाविनय— नावाकर्णधार कर्ण ! युष्माभिः बहुभिर्महारथैः परिवार्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः। अहं पुनर्युष्माकं प्रेक्षमाणानामेव वृषसेनमद्य स्मर्तव्यशेषं करोमि।) ॥ २३५॥
भयं नृपादिजनितमुद्वेगस्संप्रकीर्तितः॥ २३६॥
यथा रत्नावल्यां तृतीयेऽङ्के,
सागरिका—वरं दाणिं अहं सअं एव्व अत्ताणं उब्बंधिअ उवरदा, ण उण जाणिदसंकेदवुत्तंतए देवीए परिभूद ह्मि। ता जाव इह असोअपादवं गदुअ जधासमीहिदं करिस्सं।
{वरमिदानीमहं स्वयमेवात्मानमुद्बध्योपरता, पुनर्ज्ञातसंकेतवृत्तान्तया देव्या परिभूतास्मि। तद्यावदिह अशोकपादपं गत्वा यथासमीहितं करिष्ये।}
यथा च वेणीसंहारे चतुर्थेऽङ्के,
'भो भोः भयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः पाण्डवपक्षपातिनश्च योधाः ! न भेतव्यं न भेतव्यम्' इत्यादि भीमसेनवचनं श्रुत्वा, (सभयम्) कथमासन्नो दुरात्मा कौरवराज— पुत्रमहावनोत्पातमारुतः ! अनुपलब्धसंज्ञश्च महाराजः ! भवतु। सुदूरमपहरामि स्यन्दनम्। कदाचिदयमनार्यो दुश्शासन इवास्मिन्नद्याप्यनार्यमाचरिष्यति, इति ॥ २३७॥