भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1061 to 1070 of 2002 verses
यथा च वेणीसंहारे

सुन्दरकः—तदो अ देव सत्तिखंडणामरिसिदेण गंडीविणा भणि(अ)—रे रे दुज्जोहणप्पमुहा कुरुकुल—अविणअ—णावाकण्णधार कण्ण ! तुम्हेहिं बहुहिं महारहेहिं पडिवारिअ एआई मम पुत्तओ अहिमण्णु व्वावादिदो। अहं उण तुम्हाणं पेक्खन्ताणं एव्व विससेणं अज्ज सुमरिदव्वसेसं करोमि। (ततश्च देव ! शक्तिखण्डनामर्षितेन गाण्डीविना भणितम्—रे रे दुर्योधनप्रमुखाः, कुरुकुलाविनय— नावाकर्णधार कर्ण ! युष्माभिः बहुभिर्महारथैः परिवार्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः। अहं पुनर्युष्माकं प्रेक्षमाणानामेव वृषसेनमद्य स्मर्तव्यशेषं करोमि।) ॥ २३५॥

३६. (३.१२ उद्‍वेगः)

भयं नृपादिजनितमुद्वेगस्संप्रकीर्तितः॥ २३६॥

(नाशा. १९.८३)

यथा रत्‍नावल्यां तृतीयेऽङ्के,

सागरिका—वरं दाणिं अहं सअं एव्व अत्ताणं उब्बंधिअ उवरदा, ण उण जाणिदसंकेदवुत्तंतए देवीए परिभूद ह्मि। ता जाव इह असोअपादवं गदुअ जधासमीहिदं करिस्सं।

{वरमिदानीमहं स्वयमेवात्मानमुद्‍बध्योपरता, पुनर्ज्ञातसंकेतवृत्तान्तया देव्या परिभूतास्मि। तद्यावदिह अशोकपादपं गत्वा यथासमीहितं करिष्ये।}

यथा च वेणीसंहारे चतुर्थेऽङ्के,

'भो भोः भयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः पाण्डवपक्षपातिनश्च योधाः ! न भेतव्यं न भेतव्यम्' इत्यादि भीमसेनवचनं श्रुत्वा, (सभयम्) कथमासन्नो दुरात्मा कौरवराज— पुत्रमहावनोत्पातमारुतः ! अनुपलब्धसंज्ञश्च महाराजः ! भवतु। सुदूरमपहरामि स्यन्दनम्। कदाचिदयमनार्यो दुश्शासन इवास्मिन्नद्याप्यनार्यमाचरिष्यति, इति ॥ २३७॥

Showing 1061 to 1070 of 2002 verses