यथा (च) वेणीसंहारे पञ्चमेऽङ्के,
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः।
सूतः— स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः॥ २४१॥(वेसं. ५.२५)
गान्धारी— (सभयम्) जाद ! किं एत्थ पडिवज्जिदव्वं ? (जात ! किमत्र प्रतिपत्तव्यम् ?)
राजा—ननु सन्निहितैवेयं गदा, इति।
(४. विमर्शसन्धौ त्रयोदशाङ्गानि)
अथ विमर्शाङ्गानि त्रयोदश। (तेषु)—