रोषग्रथितवाक्यं तु संस्फोट इति कीर्तितम्॥ २४५॥
यथा रत्नावल्यां तृतीयेऽङ्के तदेव सागरिका—वत्सराजयोर्वाक्यमलक्षिता निशम्योपसृत्य च देवी सरोषमाह—
जज्जउत्त ! जुत्तं एदं, सरिसं एदं। (आर्यपुत्र ! युक्तमेतत् ! सदृशमेतत् !)
राजा—(सागरिकां मुक्त्वा ससम्भ्रमम्) देवि ! न खल्वकारणे मामुपा— लब्धुमर्हसि। सत्यं त्वामेव मत्वा वेषसादृश्याद् विप्रलब्धा वयमिहागताः। तथापि क्षम्यताम्। (इति पादयोः पतति।)
वासवदत्ता—अय्यउत्त ! उट्टेहि। किं अज्जे वि अहिजाई सेवादुक्खं अणुभवीअदि ?। (आर्यपुत्र ! उत्तिष्ठ। किमद्यापि अभिजातया सेवादुःखमनुभाव्यते ?)
राजा—कथमिदमपि श्रुतं देव्या ? इति।
युधिष्ठिरः—पाञ्चालक ! कच्चिदासादिता तस्य दुरात्मनः कौरवापसदस्य पदवी ?