भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1101 to 1110 of 2002 verses
३९. (४.२ संस्फोटः)

रोषग्रथितवाक्यं तु संस्फोट इति कीर्तितम्॥ २४५॥

(नाशा. १९.८४)

यथा रत्‍नावल्यां तृतीयेऽङ्के तदेव सागरिका—वत्सराजयोर्वाक्यमलक्षिता निशम्योपसृत्य च देवी सरोषमाह—

जज्जउत्त ! जुत्तं एदं, सरिसं एदं। (आर्यपुत्र ! युक्तमेतत् ! सदृशमेतत् !)

राजा—(सागरिकां मुक्त्वा ससम्भ्रमम्) देवि ! न खल्वकारणे मामुपा— लब्धुमर्हसि। सत्यं त्वामेव मत्वा वेषसादृश्याद् विप्रलब्धा वयमिहागताः। तथापि क्षम्यताम्। (इति पादयोः पतति।)

वासवदत्ता—अय्यउत्त ! उट्टेहि। किं अज्जे वि अहिजाई सेवादुक्खं अणुभवीअदि ?। (आर्यपुत्र ! उत्तिष्ठ। किमद्यापि अभिजातया सेवादुःखमनुभाव्यते ?)

राजा—कथमिदमपि श्रुतं देव्या ? इति।

यथा च वेणीसंहारे

युधिष्ठिरः—पाञ्चालक ! कच्‍चिदासादिता तस्य दुरात्मनः कौरवापसदस्य पदवी ?

Showing 1101 to 1110 of 2002 verses