तन्नर्तनकं२१ शम्यालास्यच्छलिकद्विपद्यादि॥ ३१०॥
रथ्यासमाजचत्वरसुरालयादौ प्रवर्त्यते बहुभिः।
पात्रविशेषैर्यत् तत् प्रेक्षणकं२२ कामदहनादि॥ ३११॥
षोडश द्वादशाष्टौ वा यस्मिन् नृत्यन्ति नायिकाः।
पिण्डीबन्धादिविन्यासै रासकं२३ तदुदाहृतम्॥ ३१२॥
पिण्डनात्तु भवेत्पिण्डी गुम्फनाच्छुङ्खला भवेत्।
भेदनाद् भेद्यको जातो लता जालापनोदनः॥ ३१३॥
एते नृत्तात्मकाः कार्या नाट्यवन्तः क्रियाविधौ।
सुकुमारोद्धतैरङ्गैर्गायिकाभिर्विलक्षणाः ॥ ३१४॥
वाक्यस्यावधयो ह्येते पिण्ड्याद्या ब्रह्मणोऽङ्गजाः।