भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1091 to 1100 of 1530 verses
विश्रामैश्च विहीना स्त्रीयोज्या वर्जितैः/तस्तालैः॥ ३०५॥

वस्तूनि भाणिकाया नव दश वा नियमतो विधीयन्ते।

नवमाद्यपञ्चमेषु स्थानेषु च भग्‍नतालः स्यात्॥ ३०६॥

स्थानान्तरेषु चास्यां लयतालविधिर्यदृच्छया क्रियते।

विविधवचोविन्यासैस्सभ्यजनोत्साहसम्पत्तिः ॥ ३०७॥

गोष्ठे यत्तु विहरतश्चेष्टितमिह कैटभद्विषः किंचित्।

रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति १९गोष्ठीति॥ ३०८॥

यन्मण्डलेन नृत्तं स्त्रीणां २०हल्लीसकं तु तत् प्राहुः।

तत्रैको नेता स्याद् गोपस्त्रीणामिव मुरारिः॥ ३०९॥

यस्य पदार्थाभिनयं ललितलयं सदसि नर्तकी कुरुते।

Showing 1091 to 1100 of 1530 verses