दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतं वृथा यदि खलास्तत्कालकूटेन किम्।
किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम्॥ ३०४॥
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत्॥ ३०५॥
एवमन्येऽप्यन्योक्त्यादयो वक्तव्याः। ते चोभयालङ्कारे विशेषेणाग्रतो वक्ष्यन्ते। तेषूभयोः सादृश्यमिवादयः प्रतिपादयन्ति। इह तु सदृशेन सदृशः प्रतीयत इत्यस्ति भेदः।
लिङ्गदर्शनाद् लिङ्गिज्ञानम् अनुमानम्। यथा—(रुद्रटा. ७.५७)
सावज्ञमागमिष्यन् नूनं पतितोऽसि पादयोस्तस्याः।