अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति॥ ३००॥
अथास्योपमाभेदः। को भेदः ?
उच्यते—'पदार्थयोर्गुणलेशेन सादृश्यप्रतिपत्तिरुपमा'। यदाह— (काव्याद. २.१४)
यथाकथंचित् सादृश्यं यत्रोद्भूतं प्रतीयते।
उपमां नाम तामाहुर्यथेन्दुरिव ते मुखम्॥ ३०१॥
उपमैव तिरोभूतभेदा रूपकमिष्यते।
यथा बाहुलता पाणिपद्मं चरणपल्लवम्॥ ३०२॥
यदप्रसिद्धौ सादृश्यमुक्तिभङ्गेन केनचित्।
तत्सादृश्यं प्रकाराणामस्य संख्या न विद्यते॥ ३०३॥