सदृशात् सदृशप्रतिपत्तिरुपमानम्। यथा—
तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले।
समूहस्तारकाणां यः शकटाकारमाश्रितः॥ २९५॥
सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्ष— स्तत्संघट्टाद् विघटितबुहत्खण्डमुच्चण्डरोचिः।
एवं वेगात् कुलिशमकरोद् व्योम विद्युत्सहस्रै— र्भर्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः॥ २९६॥
अभिनयोऽप्युपमानमेव। यथा—(गास. ३.५७)
वइविवरणिग्गअदलो एरंडो साहइ व्व तरुणाणं।
एत्थ घरे हलिअबहू एद्दहमेत्तत्थणी वसइ॥ २९७॥
(वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणानाम्।