गाथामात्राद्विपथकपाठ्येनालङ्कृतो भवति॥ २९१॥
वर्णोऽथ मत्तपाली सभग्नताला त्वनन्तरं गाथा।
अनुभग्नतालमात्रे प्रथमे स्याद् भग्नतालश्च॥ २९२॥
मात्रानु च मार्गणिका मात्राथ ततोऽनु भग्नतालश्च।
गाथाद्विपथवहन्तो विश्रामे स्याद् द्वितीये तु॥ २९३॥
मात्रा विषमच्छिन्ना सभग्नतालाथ भवति रध्वाथ्या च।
मार्गणिकेत्येवं स्यात् तालविधानं तृतीये तु॥ २९४॥
मात्राद्विपथवहन्तो रध्वाथ्यावस्थापनं चतुर्थे स्युः।
रध्वा/थ्याथ भग्नतालो मार्गणिकाद्विपथविषमाश्च॥ २९५॥
पञ्चमके षष्ठेऽप्यथ रध्वा/थ्यानु च भग्नतालः स्यात्।