पद्धतिकाच्छर्धनिका यत्र स्युस्तदिह १६काव्यमिति॥ २८६॥
युक्तं लयान्तरैर्यच्च ध्वनिकास्थाननिर्मितैर्भवति।
काव्यमिति; विविधरागं चित्रमिति तदुच्यते कृतिभिः॥ २८७॥
हरिहरभानुभवानीस्कन्दप्रमथाधिपस्तुतिनिबन्धः।
उद्धतकरणप्रायः स्त्रीवर्जो वर्णनायुक्तः॥ २८८॥
धवलगुणकीर्तनपरैर्गाथारम्भादिभिः स्तुतिनिबन्धः।
गायनसहोक्तियुक्तोदन्तेन विभूषितप्रायः॥ २८९॥
त्रिचतुःपञ्चवितालैर्विश्रामैः सप्तभिः परिच्छिन्नः।
अर्धोद्ग्राहनिवारणसंख्यातैः कुत्रचिन्नियतः॥ २९०॥
समविश्रामैर्द्विपथैर्विभूषितः पञ्चमे विपरिवर्ते।